|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.123. अध्यायः 123
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
फेनपस्य गोभी रन्तिदेवं प्रति तत्सत्रे स्वेषां पशुत्वेन विनियोगप्रार्थना॥ 1 ॥
तेन गवां मध्ये कस्याश्चिदपि सकामत्वज्ञाने सत्रविरामरूपसमयकरणेन सत्रारभ्यः॥ 2 ॥
कदाजन कस्याश्चिद्गोर्वत्सस्नेहाद्विशसने दुःखावगमेन यागोपरमः॥ 3 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`भीष्म उवाच।
ता गावो रन्तिदेवस्य गत्वा यज्ञं मनीषिणः।
आत्मानं ज्ञापयामासुर्महर्षीणां समक्षतः॥ 13-123-1(86168)
रन्तिदेवस्ततो राजा प्रयतः प्राञ्जलिः शुचिः।
उवाच गावः प्रणतः किमागमनमित्यपि॥ 13-123-2(86169)
गाव ऊचुः। 13-123-3x(7148)
इच्चामस्तव राजेन्द्र सत्रेऽस्मिन्विनियोजनम्।
पशुत्वमुपसम्प्राप्तुं प्रसादं कर्तुमर्हसि॥ 13-123-3(86170)
रन्तिदेव उवाच। 13-123-4x(7149)
नास्ति शक्तो गवां घातं कर्तुं शतसहस्रशः।
घातयित्वा त्वहं युष्मान्कथमात्मानमुत्तरे॥ 13-123-4(86171)
यः पशुत्वेन संयोज्य युष्मान्स्वर्गं नयेदिह।
आत्मानं चैव तपसा गावः समुपगम्यताम्॥ 13-123-5(86172)
गाव ऊचुः। 13-123-6x(7150)
अस्माकं तारणे युक्तो धर्मात्मा तपसि स्थितः।
श्रुतोऽस्माभिर्भवान्राजंस्ततस्तु स्वयमागताः॥ 13-123-6(86173)
रन्तिदेव उवाच। 13-123-7x(7151)
मम सत्रे पशुत्वं वो यद्येवं हि मनीषितम्।
समयेनाहमेतेन जुहुयां वो हुताशने॥ 13-123-7(86174)
कदाचिद्यदि वः काचिदकामा विनियुज्यते।
तदा समाप्तिः सत्रस्य गवां स्यादिति नैष्ठिकी॥ 13-123-8(86175)
गाव ऊचुः। 13-123-9x(7152)
एवमस्तु महाराज यथा त्वं प्रब्रवीषि नः।
अकामाः स्युर्यदा गावस्तदा सत्रं समाप्यताम्॥ 13-123-9(86176)
भीष्म उवाच। 13-123-10x(7153)
ततः प्रवृत्ते गोसत्रे रन्तिदेवस्य धीमतः।
गोसहस्राण्यहरहर्नियुज्यन्ते शमीतृभिः॥ 13-123-10(86177)
एवं बहनि वर्षाणि व्यतीतानि नराधिप।
गवां वै वध्यमानानां न चान्तः प्रत्यदृश्यत॥ 13-123-11(86178)
गवां चर्मसहस्रैस्तु राशयः पर्वतोपमाः।
बभूवुः कुरुशार्दूल बहुधा मेघसंनिभाः॥ 13-123-12(86179)
मेदःक्लेदवहा चैव प्रावर्तत महानदी।
अद्यापि भुवि विख्याता नदी चर्मण्वती शुभा॥ 13-123-13(86180)
ततः कदाचित्स्वं वत्सं गौरुपामन्त्र्य दुःखिता।
एहि वत्स स्तनं पाहि मा त्वं पश्चात्क्षुदार्दितः॥ 13-123-14(86181)
तप्स्यसे विमना दुःखं घातितायां मयि ध्रुवम्।
एते ह्यायान्ति चण्डालाः सशस्त्रामां जिघांसवः॥ 13-123-15(86182)
अथ शुश्राव तां वाणीं मानुषीं समुदाहृताम्।
रन्तिदेवो महाराज ततस्तां समवारयत्॥ 13-123-16(86183)
स्थापयामास गोसत्रमथ तं पार्तिवर्षभ।
सत्रोत्सृष्टाः परित्यक्ता गावोऽन्याः समुपाश्रिताः॥ 13-123-17(86184)
यास्तस्य राज्ञो निहता गावो यज्ञे महात्मनः।
ता गोलोकमुपाजग्मुः प्रेक्षिता ब्रह्मवादिभिः॥ 13-123-18(86185)
रन्तिदेवोपि राजर्षिरिष्ट्वा यज्ञं यथाविधि।
ततः सख्यं सुरपतेस्त्रिदिवं चाक्षयं ययौ॥ 13-123-19(86186)
फेनपो दिवि गोलोके मुमुदे शाश्वतीः समाः।
अवशिष्टश्च या गवस्ता बभूवुर्वनेचराः॥ 13-123-20(86187)
फेनपाख्यानमेतत्ते गवां माहात्म्यमेव च।
कथितं पावनं पुण्यं कृष्णद्वैपायनेरितम्॥ 13-123-21(86188)
नारायणोऽपि भगवान्दृष्ट्वा गोषु परं यशः।
शुश्रूषां परमां चक्रे भक्तिं च भरतर्षभ॥ 13-123-22(86189)
तस्मात्त्वमपि राजेन्द्र गा वै पूजय भारत।
द्विजेभ्यश्चैव सततं प्रयच्छ कुरुसत्तम॥ ॥ 13-123-23(86190)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः॥ 123 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-123-8 कदाचित् कदापि। काचित् कापि॥ 7-123-10 शमीतृभिः शमितृभिः। दीर्घ आर्षः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|